Back to Stotram
चैत्र मास शिव नामावलि
ॐ देवाय (शुद्धाय) नमः ।
ॐ शिवाय (सुव्रताय) नमः ।
ॐ अनन्ततेजसे नमः ।
ॐ क्षत्राधिपतये (क्षेत्राधिपतये) नमः ।
ॐ वीजिने (बीजिने) नमः ।
ॐ शूलिने नमः ।
ॐ ह्रस्वाय नमः ।
ॐ ऊर्ध्वाय नमः ।
ॐ धूम्राय नमः ।
ॐ दण्डिने नमः । १० ॥
ॐ रुक्मतेजसे नमः ।
ॐ ज्येष्ठाय नमः ।
ॐ श्रेष्ठाय नमः ।
ॐ बलप्रमथनाय नमः ।
ॐ वन्याय नमः ।
ॐ पूज्याय नमः ।
ॐ सद्योजाताय नमः ।
ॐ गह्वराय नमः ।
ॐ अध्वरेशाय नमः ।
ॐ हव्यवाहाय नमः । २० ॥
ॐ चारिणे नमः ।
ॐ भूतानामुद्भवाय नमः ।
ॐ प्रभवे नमः ।
ॐ विभवे नमः ।
ॐ देवाय नमः ।
ॐ द्योतमानाय नमः ।
ॐ मानातीताय नमः ।
ॐ शम्भवे नमः ।
ॐ वेदाङ्गाय नमः ।
ॐ प्रधानाय नमः । ३० ॥
ॐ योगसाङ्ख्यविहारिणे नमः ।
ॐ ध्रुवाध्रुवाय नमः ।
ॐ शान्ताय नमः ।
ॐ विश्वाय नमः ।
ॐ सुमहर्षये नमः ।
ॐ ग्रहाय नमः ।
ॐ ग्राह्यरूपाय नमः ।
ॐ गृहस्थाय नमः ।
ॐ यतात्मने नमः ।
ॐ अहोरात्राय नमः । ४० ॥
ॐ मासाय नमः ।
ॐ ऋतवे नमः ।
ॐ क्रतवे नमः ।
ॐ संवत्सराय नमः ।
ॐ युगकालात्मने नमः ।
ॐ परार्धाय नमः ।
ॐ प्रसन्नाय नमः ।
ॐ शुष्काय नमः ।
ॐ हरिताय नमः ।
ॐ धर्माधर्मस्वरूपाय नमः । ५० ॥
ॐ पराय नमः ।
ॐ विभवे नमः ।
ॐ पुरान्तकाय नमः ।
ॐ भीमाय नमः ।
ॐ वर्गाय नमः ।
ॐ धृतये नमः ।
ॐ मन्वन्तराय नमः ।
ॐ काव्याय नमः ।
ॐ विश्वाप्यायविधायिने नमः ।
ॐ विश्वसर्गाय नमः । ६० ॥
ॐ भर्गाय नमः ।
ॐ ज्योतिषे नमः ।
ॐ दिव्यचक्षुषे नमः ।
ॐ कल्पाद्याय नमः ।
ॐ निबद्धाय नमः ।
ॐ शुद्धबुद्धाय नमः ।
ॐ रंहसे नमः ।
ॐ ब्रह्मणे नमः ।
ॐ ब्रह्मभूताय नमः ।
ॐ ब्रह्माधिपतये नमः । ७० ॥
ॐ विद्येशाय नमः ।
ॐ आदिदेवाय (अधिदेवाय) नमः ।
ॐ विद्याधिपतये नमः ।
ॐ व्रताधिपतये नमः ।
ॐ मन्त्राधिपतये नमः ।
ॐ पितॄणां पतये नमः ।
ॐ पशूनां पतये नमः ।
ॐ शेषभूषाय नमः ।
ॐ तुष्टाय नमः ।
ॐ पुष्टाय नमः । ८० ॥
ॐ वृषभाय नमः ।
ॐ पुराणाय नमः ।
ॐ पत्तीनां पतये नमः ।
ॐ प्रजापतीनां पतये नमः ।
ॐ व्योमकेशाय नमः ।
ॐ सिद्धाय नमः ।
ॐ बृहते नमः ।
ॐ परघोषाय नमः ।
ॐ दैत्यदानवपूज्याय नमः ।
ॐ पायवे नमः । ९० ॥
ॐ दक्षघातिने नमः ।
ॐ यक्षाय नमः ।
ॐ भिक्षुरूपाय नमः ।
ॐ कक्षवासाय नमः ।
ॐ पक्षिवाहप्रपूज्याय नमः ।
ॐ गुह्यलिङ्गाय नमः ।
ॐ पूर्वाय नमः ।
ॐ पर्वमध्याय नमः ।
ॐ शर्वरीशधारिणे (शर्वरीशविधारिणे ?) नमः ।
ॐ भव्याय (भवाय) नमः । १०० ॥
ॐ भवरूपाय नमः ।
ॐ मखाध्यक्षाय नमः ।
ॐ धातवे नमः ।
ॐ भववैद्याय नमः ।
ॐ घोराय नमः ।
ॐ वामदेवाय नमः ।
ॐ सद्योजाताय नमः ।
ॐ ईशानाय नमः । १०८ ॥