Buy Pooja Samagri Online | Best Shiv Puja Items Hindu Ritual Items - mereshiv.in
Product Suggestions

Back to Stotram

नंदी स्तोत्र
(स्तोत्र प्रारम्भ)

नमो नंदीश्वराय । नमः कूष्माण्डरागाय वज्रोद्यतकराय च 
सालङ्कायनपुत्राय हलमार्गोत्थिताय च । 
शिलादस्य च पुत्राय रुद्रजाप्यपराय च ॥ 
रुद्रभक्ताय देवाय नमस्तेजलशायिने ॥ 
नमोगणाधिपतये महायोगीश्वराय च । 
दण्डघण्टाय चण्डाय एकादशशताय च ॥ 
अक्षरायामृतायैव अजरायाव्ययाय च 
पशूनां पतये चैव रुद्ररूपधराय च ॥
नमः प्रबलवेशाय सर्वज्ञायाजिताय च । 
अनेकशिरसे चैव अनेकवदनाय च ॥
किरीटने कुण्डलिने महापरिधवाहवे । 
पाहि सर्वगणांश्चैव पाहि देव नमोऽस्तु ते ॥
  
 (फलश्रुति)

एवं जप्त्वा तदादेव स्तस्मिन् व्यास महात्मने । 
प्राञ्जलिः प्रणतोभूत्वा जयशब्दं चकार ह ॥
ततो देवा जयेत्युचुस्ततो दैत्यास्ततोऽसुराः । 
ततः सर्वाणि भूतानि ब्रह्मा शक्रस्तथैव च ॥
डिण्डिमा धेनुकाश्चैव मर्दनाश्च सहस्रशः । 
ततः शङ्खाश्च भेर्याश्च मर्दलाश्च सहस्रशः ॥ 
वंशाश्च वांशिकाश्चैव कर्करा गोविषाणिकाः ।
आवादयन्त गणपाः सयक्षासूर पन्नगाः ॥ 
नन्दीश्वरस्य य इमं स्तवं दैवतनिर्मितम् । 
यः पठेत् सततं मर्त्यः स गच्छेन्मम लोकताम् ॥
नमो नन्दीश्वरायेति यः कृत्वा स्तुतिमाचरेत् । 
तस्य कूष्माण्डराजेभ्यो न भयं विद्यते क्वचित् ॥ 
प्रभाते यः पठेन्नित्यं स्वयं वै भावसंयुत । 
तस्य देवो वरं दद्यात् स्तवेनानेन पूजितः । 
न भयं तत्र भवति भयेभ्यो व्यास सर्वदा ॥
नन्दीश्वरं ये प्रणमामि नित्यं , प्रसन्नसर्वेन्द्रियशुद्धसत्वाः ।
ते देवदेवस्य सदादिपूज्य , इष्टा विशिष्टाश्च गणा भवन्ति