Buy Pooja Samagri Online | Best Shiv Puja Items Hindu Ritual Items - mereshiv.in
Product Suggestions

Back to Strotam

 

ज्येष्ठ मास शिव नामावलि



ॐ ज्येष्ठाय नमः ।

ॐ हृष्टाय नमः ।

ॐ शिपिविष्टाय नमः ।

ॐ धावते नमः ।

ॐ पुष्टिप्रसादाय नमः ।

ॐ गोवृषाय नमः ।

ॐ ककुद्मिने नमः ।

ॐ अभ्युदीर्णाय नमः ।

ॐ शान्ताय नमः ।

ॐ वज्रहस्ताय नमः । १० ॥

 

 

ॐ शस्त्रिणे नमः ।

ॐ आशावसानाय नमः ।

ॐ सहमानाय नमः ।

ॐ हेतवे नमः ।

ॐ ध्वजिने नमः ।

ॐ दण्डिने नमः ।

ॐ बम्भराय नमः ।

ॐ प्रसादिने नमः ।

ॐ उरुगव्याय नमः ।

ॐ काव्याय नमः । २० ॥

ॐ बभ्रुवे नमः ।

ॐ भ्रमते नमः ।

ॐ स्विष्टाय नमः ।

ॐ पूर्वाय नमः ।

ॐ हुताय नमः ।

ॐ प्रहुताय नमः ।

ॐ सभ्याय नमः ।

ॐ सदस्याय नमः ।

ॐ सभायाः पतये नमः ।

ॐ अहिंसायाप्य(प्र)लोभाय नमः । ३० ॥

 

 

ॐ पञ्चास्याय नमः ।

ॐ सुधन्वने नमः ।

ॐ त्रिणेत्राय नमः ।

ॐ सुपार्श्वाय नमः ।

ॐ तुष्टाय नमः ।

ॐ उदराय नमः ।

ॐ शिवाय नमः ।

ॐ शान्तरूपाय नमः ।

ॐ शतावर्ताय नमः ।

ॐ अन्नायासन्नपालाय नमः । ४० ॥

ॐ आत्तमालाय नमः ।

ॐ भवाय नमः ।

ॐ रुद्राय नमः ।

ॐ कद्रुद्राय नमः ।

ॐ प्रचेतसे नमः ।

ॐ इन्द्रियहीनाय नमः ।

ॐ लेलिहानाय नमः ।

ॐ सृक्विणे नमः ।

ॐ विश्वाय नमः ।

ॐ विश्वरूपाय नमः । ५० ॥

 

 

ॐ विश्वस्मै नमः ।

ॐ शिरसे नमः ।

ॐ सर्वतः पाणिपादाय नमः ।

ॐ सर्वेन्द्रियविहारिणे नमः ।

ॐ रुद्राय नमः ।

ॐ प्रतिरूपाय नमः ।

ॐ खण्डचन्द्रधराय नमः ।

ॐ विश्वोत्पत्तिविनाशाय नमः ।

ॐ षडूर्मिरहिताय नमः ।

ॐ सिद्धाय नमः । ६० ॥

ॐ साध्याय नमः ।

ॐ यमानां पतये नमः ।

ॐ मयोभुवे नमः ।

ॐ शम्भवे नमः ।

ॐ विभवे नमः ।

ॐ प्रभवे नमः ।

ॐ दुन्दुभ्याय नमः ।

ॐ आहनन्याय नमः ।

ॐ शङ्गाय नमः ।

ॐ प्रमाय नमः । ७० ॥

ॐ सुवीराय नमः ।

ॐ सुघोराय नमः ।

ॐ अक्षोभ्यक्षोभणाय नमः ।

ॐ सुप्रजाय नमः ।

ॐ सुमेध्याय नमः ।

ॐ सुधाम्ने नमः ।

ॐ अनन्तचक्षुषे नमः ।

ॐ बुद्धाय नमः ।

ॐ शुद्धाय नमः ।

ॐ बन्धमोक्षाय नमः । ८० ॥

 

 

ॐ भूतभव्याय नमः ।

ॐ वर्तमानाय नमः ।

ॐ दम्यते नमः ।

ॐ भवाय नमः ।

ॐ भद्राय नमः ।

ॐ घनघोषाय नमः ।

ॐ प्रपन्नजनरक्षाय नमः ।

ॐ भक्तपापहराय नमः ।

ॐ साकेतवासगोप्याय नमः ।

ॐ यममार्गहराय नमः । ९० ॥

ॐ भद्राय नमः ।

ॐ रुद्ररूपाय नमः ।

ॐ तन्द्राय नमः ।

ॐ स्थूलाय नमः ।

ॐ सूक्ष्माय नमः ।

ॐ दृश्यादृश्याय नमः ।

ॐ गोप्त्रिणे नमः ।

ॐ वर्षते नमः ।

ॐ ज्वलते नमः ।

ॐ ग्रसते नमः । १०० ॥

 

 

ॐ ह्रसते नमः ।

ॐ सुचारुकोशाय नमः ।

ॐ उरुवक्षशिखाय नमः ।

ॐ सुवर्णाय नमः ।

ॐ तपनीयनिभाय नमः ।

ॐ विरूपाय नमः ।

ॐ प्रसन्नाय नमः ।

ॐ सर्वरूपाय नमः । १०८ ॥