Buy Pooja Samagri Online | Best Shiv Puja Items Hindu Ritual Items - mereshiv.in
Product Suggestions

श्रीमत्परमशिवामृतलिङ्गं श्रीपतिदीन(द्रुहिण)विलोकनलिङ्गम् ।

सृष्टिस्थितिलयकारणलिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ १॥

 

श्रीगिरिजापरमाद्भुतलिङ्गं श्रितजनतासंरक्षणलिङ्गम् ।

श‍ृङ्गाराङ्गमखान्तकलिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ २॥

 

अखिलजगद्धितमनुपमलिङ्गं सकलसुरासुरसेवितलिङ्गम् ।

अकलङ्कमल (अकलङ्कं च) जटाधरलिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ ३॥

 

रविशशिबाडबलोचनलिङ्गं रमणीयाण्डजकुण्डललिङ्गम् ।

रतिपत्यङ्गविभङ्गसुलिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ ४॥

 

हरिहयमणिनिभकन्धरलिङ्गं हरिनन्दनगर्वान्तकलिङ्गम् ।

हरमद्भुतमतिनिर्मललिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ ५॥

 

अधिकसमानविवर्जितलिङ्गं मधुरमनोज्ञसुभाषणलिङ्गम् ।

विधिचापापविवर्जितलिङ्गं(?) तं भज विश्वेश्वरशिवलिङ्गम् ॥ ६॥

 

शरणागतसंरक्षणलिङ्गं करुणारसमयलोचनलिङ्गम् ।

तरुणारुणचरणं भज लिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ ७॥

 

लोकालोकव्यापकलिङ्गं काकोदरपतिकङ्कणलिङ्गम् ।

आकाशात्परचिन्मयलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ ८॥

 

सामादिश्रुतिसन्नुतलिङ्गं सामजवाहनसेवितलिङ्गम् ।

दामोदशरदृतबललिङ्गं(?) तं भज विश्वेश्वरशिवलिङ्गम् ॥ ९॥

 

अम्बरकेशमना(न)म्बरलिङ्गं कम्बुग्रीवमगोत्रजलिङ्गम् ।

लम्बोदरगुहलालनलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ १०॥

 

पक्षापक्षविवर्जितलिङ्गं दक्षाध्वरसंरक्षित(संहारक)लिङ्गम् ।

अक्षात्परमजमक्षयलिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ ११॥

 

रत्नगिरीन्द्रशरासनलिङ्गं रत्नमयोज्ज्वलभूषणलिङ्गम् ।

आत्मानन्दसुखास्पदलिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ १२॥

 

तत्त्वम्पदवाच्याधिकलिङ्गं तारकयोगविधायकलिङ्गम् ।

चिन्मयनित्यनिरञ्जनलिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ १३॥

 

दशदिग्वाससमनुपमलिङ्गं दशकन्धरगानप्रियलिङ्गम् ।

पशुपाशत्वविमोचनलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ १४॥

 

गौरीकुचकलशाङ्कितलिङ्गं शौरीक्षणजलजाप्रण(र्पण)लिङ्गं (?) ।

वैरीन्द्रियनिवहान्तकलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ १५॥

 

भैरवबाहुबलाकरलिङ्गं कैरवबन्धुकलाधरलिङ्गम् ।

कौरवशत्रुजनार्चितलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ १६॥

 

किङ्करभयनाशङ्करलिङ्गं कुङ्कुमपङ्कविलेपनलिङ्गम् ।

शङ्करमादिनिरङ्कुशलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ १७॥

 

सनकसनन्दनसन्नुतलिङ्ग- मनघमनन्तमबाधितलिङ्गम् ।

मुनिजनमनुवनजस्थितलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ १८॥

 

मननविहीनमनोन्मनलिङ्गं विनुतविशुद्धसनातनलिङ्गम् ।

जननविनाशमनाकुललिङ्गं तं भज विश्वेश्वर शिवलिङ्गम् ॥ १९॥

 

स्फुटतरमोदसुरेश्वरलिङ्गं पटुतरहठयोगप्रियलिङ्गम् ।

वटतरुमूलतटालयलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ २०॥

 

उग्राकारमनुग्रहलिङ्गं निग्रहरूपमनुग्रहलिङ्गम् ।

व्याघ्रपदार्चितमग्रजलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ २१॥

 

ईक्षणदूरनिरीक्षणलिङ्गं सूक्ष्ममजरमनपेक्षित(क्षज)लिङ्गम् ।

पञ्चाशात्मकपौरुषलिङ्गं पञ्चीकरणविदा(धा)यकलिङ्गम् ।

पञ्चाक्षरपञ्चाननलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ २२॥

 

पाद(पाप)विदूरमहोन्नतलिङ्गं पालितभुवनचतुर्दशलिङ्गम् ।

पातालेशसदाशिवलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ २३॥

 

पशुपतितुरगारोहणलिङ्गं परमपदादिशुभप्रदलिङ्गम् ।

परमशिवाश्रमपालनलिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ २४॥

 

एतत्पञ्चविंशतिलिङ्ग- श्लोकानि च यः पठति सकृद्वा ।

तस्य जरामृतिभयमपि न हि(नास्ति) देहान्ते परशिवमाप्नोति ॥ २५॥