महालिङ्गाष्टकम्
महालिङ्गं महादेवं महेश्वरमुमापतिम् । साम्बं मध्यार्जुनेशं तं गुरुं देवं नतोऽस्म्यहम् ॥ १॥
ज्योतिरूपं कृष्णरूपं सर्वरूपं जगत्पतिम् । इष्टार्थसिद्धिदं शम्भुं महालिङ्गं नतोऽस्म्यहम् ॥ २॥
काशिक्षेत्रसमानञ्च कैलासादधिकं प्रियम् । शाश्वतस्थिरवासं च महालिङ्गं नतोऽस्म्यहम् ॥ ३॥
बृहद्कुचाम्बासहितं मूकाम्बा तपसाफलम् । गणाध्यक्षं षण्मुखञ्च महालिङ्गं नतोऽस्म्यहम् ॥ ४॥
प्रदक्षिणादश्वमेधं नमनात्वाजपेयकम् । स्तोत्रात्श्रीराजसूयाख्यं स्मराणत्मुक्तिदायकम् ॥ ५॥
क्षेत्रवासश्च निर्मुक्त तीर्थस्नानैः सदा शुचि । पञ्चाक्षरजपाश्चैव महालिङ्गं प्रतुष्यति ॥ ६॥
यः प्रदोष महालिङ्गं रुद्रजापात्प्रदोषयेत् । स सर्वरोगनिर्मुक्त शतायुस्सुखमेततु ॥ ७॥
दर्शनात्सर्वपापघ्नं नमनात्वाञ्छितप्रदम् । स्मरणान्सर्वसायुज्यं महालिङ्गं नतोऽस्म्यहम् ॥ ८॥