Buy Pooja Samagri Online | Best Shiv Puja Items Hindu Ritual Items - mereshiv.in
Product Suggestions

श्रीगणेशाय नमः ।

स्कन्द उवाच ।

योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः ।

स्कन्दः कुमारः सेनानीः स्वामी शङ्करसम्भवः ॥ १॥

गाङ्गेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः ।

तारकारिरुमापुत्रः क्रौञ्चारिश्च षडाननः ॥ २॥

शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः ।

सनत्कुमारो भगवान् भोगमोक्षफलप्रदः ॥ ३॥

शरजन्मा गणाधीशपूर्वजो मुक्तिमार्गकृत् ।

सर्वागमप्रणेता च वाञ्छितार्थप्रदर्शनः Pr॥ ४॥

अष्टाविंशतिनामानि मदीयानीतियः पठेत् ।

प्रत्यूषं श्रद्धया युक्तो मूको वाचस्पतिर्भवेत् ॥ ५॥

महामन्त्रमयानीति मम नामानुकीर्तनम् ।

महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ॥ ६॥