Buy Puja Samagri Online | Rudraksh Thirumanjanam Dhoop Kumkum Vibhuti & More - mereshiv.in
Product Suggestions

सुरथाय सुमध्याय मन्मथान्तकराय च । महोमयाय तीक्ष्णाय आर्द्रचर्मधराय च ॥ ३८॥

श्मशानरतिनित्याय नमोऽस्तूलूकधारिणे । बर्हिबर्हवसानाय घनाय बहुगर्जते ॥ ३९॥

काव्यपूज्याय हृद्याय त्रिणेत्राय पिनाकिने । परावराय नित्याय सत्यधर्माय ते नमः ॥ ४०॥

नमो महाध्वरेशाय तण्डुनृत्तप्रियाय च । विभीषणाय भीमाय भगप्रमथनाय च ॥ ४१॥

सिद्धसङ्घातगीताय महाशेषाऽङ्गदाय च । नमो मुक्ताट्टहासाय क्ष्वेडस्फोटकराय च ॥ ४२॥

नर्दते कुर्दते चैव नमः प्रमुदितात्मने । नमो मृडाय देवाय धावते विष्टिताय च ॥ ४३॥

ध्यायते नन्दते चैव रुवते द्रवते नमः । वलते क्रीडते चैव लम्बोदरशरीरिणे ॥ ४४॥

पिशङ्गश्मश्रुकेशाय अरुणाय क्षयाय च । नमो विकृतवेषाय मुण्डमालाधराय च ॥ ४५॥

नम उन्मत्तवेषाय किङ्किणीकटये नमः । अमर्षणाय क्रूराय विष्णुबाणधराय च ॥ ४६॥

नृसिह्मान्त्यावसानाय क्रोडदंष्ट्राविधारिणे । गजदन्तगदायाथ गोडजिनाम्बरवाससे ॥ ४७॥

तरुणाय शरण्याय अरण्यपतये नमः । अप्रमेयाय दीप्ताय निर्गुणाय गुणाय च ॥ ४८॥

वाद्यप्रियाय पाराय चूडामणिधराय च । नमस्तोकाय चिन्त्याय योगिध्येयाय शम्भवे ॥ ४९॥

नमो वेदान्तवेद्याय भववैद्याय भूतये । ओजसे तेजसे चैव भ्राजते ग्रसते नमः ॥ ५०॥

एवं वै श्रावणे पूज्यो बिल्वैर्नामशताष्टकैः । स्तवं पापहरं स्तुत्वा शिवं देवं प्रसादयेत् ॥ ५१॥